top of page
नैतिक शिक्षा
सुभाषितानि
सु= सुन्दर,
भाषितम्= भनाई(वचन)
अर्थात् सुन्दर वचन
पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् ।
मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते ।।
सत्येन धार्यते पृथ्वी, सत्येन तपते रविः ।
सत्येन वाति वायुश्च, सर्वं सत्ये प्रतिष्ठितम् ।।
दाने तपसि शौर्ये च विज्ञाने विनये नये ।
विस्मयो न हि कर्तव्यो बहुरत्ना वसुन्धरा ।।
सद्भिरेव सहासीत सद्भिः कुर्वीत सङ्गतिम् ।
सद्भिर्विवादं मैत्रीं च नासद्भिः किञ्चिदाचरेत् ।।
धनधान्यप्रयोगेषु विद्ययाः सङ्ग्रहेषु च ।
आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत् ।।
क्षमावशीकृतिर्लोके क्षमया कि न साधते ।
शान्तिखड्गः करे यस्य दुर्जनः कि करिष्यति ।।
bottom of page